|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.81. अध्यायः 081
Mahabharata - Sabha Parva - Chapter Topics
दुर्योधनेन धृतराष्ट्रोक्तिप्रतिकूलभाषणम्॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
दुर्योधन उवाच॥
यस्य नास्ति निजा प्रज्ञा केवलं तु बहुश्रुतः।
न स जानाति शास्त्रार्थं दर्वी सूपरसानिव॥ 2-81-1(14586)
जानन्वै मोहयति मां नावि नौरिव संयता।
स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान्॥ 2-81-2(14587)
न सन्तीमे धार्तराष्ट्रा येषां त्वमनुशासिता।
भविष्यमर्थमाख्यासि सर्वदा कृत्यमात्मनः॥ 2-81-3(14588)
परनेयोऽग्रणीर्यस्य स मार्गान्प्रतिमुह्यति।
पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः॥ 2-81-4(14589)
राजन्परिणतप्रज्ञो वृद्धसेवी जितेन्द्रियः।
प्रतिपन्नान्स्वकार्येषु संमोहयसि नो भृशम्॥ 2-81-5(14590)
लोकवृत्ताद्राजवृत्तमन्यदाह बृहस्पतिः।
तस्माद्राज्ञाऽप्रमत्तेन स्वार्थश्चिन्त्यः सदैव हि॥ 2-81-6(14591)
क्षत्रियस्य महाराज जये वृत्तिः समाहिता।
स वै धर्मस्त्वधर्मो वा स्ववृत्तौ का परीक्षणा॥ 2-81-7(14592)
प्रकालयेद्दिशः सर्वाः प्रतोदेनेव सारथिः।
प्रत्यमित्रश्रियं दीप्तां जिघृक्षुर्भरतर्षभ॥ 2-81-8(14593)
प्रच्छन्नो वा प्रकाशो वा योगो योऽरिं प्रबाधते।
तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम्॥ 2-81-9(14594)
शत्रुश्चैव हि मित्रं च न लेख्यं न च मातृका।
यो वै सन्तापयति यं स शत्रुः प्रोच्यते नृप॥ 2-81-10(14595)
असन्तोषः श्रियो मूलं तस्मात्तं कामयाम्यहम्।
समुच्छ्रये यो यतते स राजन्परमो नयः॥ 2-81-11(14596)
ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा।
पूर्वावाप्तं हरन्त्यन्ये राजध्रमं हि तं विदुः॥ 2-81-12(14597)
अद्रोहसमंय कृत्वा चिच्छेद नमुचेः शिरः।
शक्रः साऽभिमता तस्य रिपौ वृत्तिः सनातनी॥ 2-81-13(14598)
द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्॥ 2-81-14(14599)
नास्ति वै जातितः शत्रुः पुरुषस्य विशाम्पते।
येन साधारणी वृत्तिः स शत्रुर्नेतरो जनः॥ 2-81-15(14600)
शत्रुपक्षं समृध्यन्तं यो मोहात्समुपेक्षते।
व्याधिराप्यायित इव तस्य मूलं छिनत्ति सः॥ 2-81-16(14601)
अल्पोऽपि ह्यरिरत्यर्थं वर्धमानः पराक्रमैः।
वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात्॥ 2-81-17(14602)
आजमीढ रिपोर्लक्ष्मीर्मा ते रोचिष्ट भारत।
एष भारः सत्ववतां न यः शिरसि धिष्ठितः॥ 2-81-18(14603)
जन्मवृद्धिमिवार्थानां यो वृद्धिमाभिकाङ्क्षते।
एधते ज्ञातिषु स वै सद्यो वृद्धिर्हि विक्रमः॥ 2-81-19(14604)
नाप्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति।
अवाप्स्ये वा श्रियं तां हि शयिष्ये वा हतो युधि॥ 2-81-20(14605)
एतादृशस्य किं मेऽद्य जीवितेन विशाम्पते।
वर्धन्ते पाण्डवा नित्यं वयं स्वस्थिरवृद्धयः॥ ॥ 2-81-21(14606)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि एकाशीतितमोऽध्यायः॥81 ॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-81-3 कृत्यं इदानीं कर्तव्यम्॥ 2-81-14 अप्रवासिनं तीर्थाटनादिरहितम्॥ 2-81-15 साधारणी तुल्या वृत्तिर्जीविका। एकामिषत्वमित्यर्थः॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|